|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.361. अध्यायः 361
Mahabharata - Shanti Parva - Chapter Topics
ब्रह्मणा रुद्रंप्रति भगवन्महिमप्रतिपदानम्॥ 1॥

Mahabharata - Shanti Parva - Chapter Text
ब्रह्मोवाच। 12-361-0x(6653)(80534)
शृणु पुत्र यथाह्येष पुरुषः शाश्वतोऽव्ययः।
अक्षयश्चाप्रमेयश्च सर्वगश्च निरुच्यते॥ 12-361-1(80535)
न स शक्यस्त्वया द्रष्टुं मयाऽन्यैर्वाऽपि सत्तम।
सगुणैर्निर्गुणैर्विश्वो ज्ञानदृश्यो ह्यसौ स्मृतः॥ 12-361-2(80536)
अशरीरः शरीरेषु सर्वेषु निवसत्यसौ।
वसन्नपि शरीरेषु न स लिप्यति कर्मभिः॥ 12-361-3(80537)
ममान्तरात्मा तव च ये चान्ये देहसंज्ञिताः।
सर्वेषां साक्षिभूतोऽसौ न ग्राह्यः केनचिक्वचित्॥ 12-361-4(80538)
विश्वमूर्धा विश्वभुजो विश्वपादाक्षिनासिकः।
एकश्चरति क्षेत्रेषु स्वैरचारी यथासुखम्॥ 12-361-5(80539)
क्षेत्राणि हि शरीराणि बीजं चापि शुभाशुभम्।
तानि वेत्ति स योगात्मा ततः क्षेत्रज्ञ उच्यते॥ 12-361-6(80540)
नागतिर्न गतिस्तस्य ज्ञेया भूतेषु केनचित्।
साङ्ख्येन विधिना चैव योगेन च यथाक्रमम्॥ 12-361-7(80541)
चिन्तयामि गतिं चास्य न गतिं वेद्मि चोत्तराम्।
यथाज्ञानं तु वक्ष्यामि पुरुषं तु सनातनम्॥ 12-361-8(80542)
तस्यैकत्वं महत्त्वं च स चैकः पुरुषः स्मृतः।
महापुरुषशब्दं स बिभर्त्येकः सनातनः॥ 12-361-9(80543)
एको हुताशो बहुधा समिध्यते
एकः सूर्यस्तपसो योनिरेका।
एको वायुर्बहुधा वाति लोके
महोदधिश्चाम्भसां योनिरेकः।
पुरुषश्चैको निर्गुणो विश्वरूप
स्तं निर्गुणं पुरुषं चाविशन्ति॥ 12-361-10(80544)
हित्वा गुणमयं सर्वं कर्मं हित्वा शुभाशुभम्।
उभे सत्यानृते त्यक्त्वा एवं भवति निर्गुणः॥ 12-361-11(80545)
अचिन्त्यं चापि तं ज्ञात्वा भावसूक्ष्मं चतुष्टयम्।
विचरेद्योऽसमुन्नद्धः स गच्छेत्पुरुषं शुभम्॥ 12-361-12(80546)
एकं हि परमात्मानं केचिदिच्छन्ति पण्डिताः।
एकात्मानं तथाऽऽत्मानमपरेध्यात्मचिन्तकाः॥ 12-361-13(80547)
तत्र यः परमात्मा हि स नित्यो निर्गुणः स्मृतः।
स हि नारायणो ज्ञेयः सर्वात्मा पुरुषो हि सः॥ 12-361-14(80548)
न लिप्यते फलैश्चापि पद्मपत्रमिवाम्भसा।
कर्मात्मा त्वपरो योसौ मोक्षबन्धैः स युज्यते॥ 12-361-15(80549)
ससप्तदशकेनापि राशिना युज्यते च सः।
एवं बहुविधः प्रोक्तः पुरुषस्ते यथाक्रमम्॥ 12-361-16(80550)
यत्तत्कृत्स्नं लोकतन्त्रस्य धाम
वेद्यं परं बोधनीयं च वेदैः।
मन्ता मन्तव्यं प्राशिता प्राशनीयं
घ्राता घ्रेयं स्पर्शिता स्पर्शनीयम्॥ 12-361-17(80551)
द्रष्टा द्रष्टव्यं श्राविता श्रावणीयं
ज्ञाता ज्ञेयं सगुणं निर्गुणं च।
यद्वै प्रोक्तं तात सम्यक्प्रधानं
नित्यं चैतच्छाश्वतं चाव्ययं च॥ 12-361-18(80552)
यद्वै सूते धातुराद्यं विधानं
तद्वै विप्राः प्रवदन्तेऽनिरुद्धम्।
यद्वै लोके वैदिकं कर्म साधु
आशीर्युक्तं तद्धि तस्योपभोग्यम्॥ 12-361-19(80553)
देवाः सर्वे मनुयः साधु दान्ता
स्तं प्राग्वंशे यज्ञभागं भजन्ते।
अहं ब्रह्मा आद्य ईशः प्रजानां
तस्माज्जातस्त्वं च मत्तः प्रसूतः॥ 12-361-20(80554)
मत्तो जगज्जङ्गमं स्थावरं च
सर्वे वेदाः सरहस्या हि पुत्र॥ 12-361-21(80555)
चतुर्विभक्तः पुरुषः स क्रीडति यथेच्छति।
एवं स भगवान्देवः स्वेन ज्ञानेन बोधयत्॥ 12-361-22(80556)
एतत्ते कथितं पुत्र यथावदनुपृच्छतः।
साङ्ख्यज्ञाने तथा योगे यथावदनुवर्णितम्॥ ॥ 12-361-23(80557)
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि नारायणीये समाप्तौ एकषष्ट्यधिकत्रिशततमोऽध्यायः॥ 361॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-361-2 सगुणो निर्गुणो विश्व इति ट. ध. पाठः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|